|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.32. अध्यायः 032
Mahabharata - Adi Parva - Chapter Topics
देवगरुडयुद्धं तत्र देवानां पराजयः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-32-0x(145)(1578)
`ततस्तस्माद्गिरिवरात्समुदीर्णमहाबलः।'
गरुडः पक्षिराट् तूर्णं संप्राप्तो विबुधान्प्रति॥ 1-32-1(1579)
तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः।
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत॥ 1-32-2(1580)
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः।
भौमनः सुमहावीर्यः सोमस्य परिरक्षिता॥ 1-32-3(1581)
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः।
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि॥ 1-32-4(1582)
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः।
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्॥ 1-32-5(1583)
तेनावकीर्णा रजसा देवा मोहमुपागमन्।
न चैवं ददृशुश्छन्ना रजसाऽमृतरक्षिणः॥ 1-32-6(1584)
एवं संलोडयामास गरुडस्त्रिदिवालयम्।
पक्षतुण्डप्रहारैस्तु देवान्स विददार ह॥ 1-32-7(1585)
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्।
विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत॥ 1-32-8(1586)
सौतिरुवाच। 1-32-9x(146)
अथ वायुरपोवाह तद्रजस्तरसा बली।
ततो वितिमिरे जाते देवाः शकुनिमार्दयन्॥ 1-32-9(1587)
ननादोच्चैः स बलवान्महामेघ इवाम्बरे।
वध्यमानः सुरगणैः सर्वभूतानि भीषयन्॥ 1-32-10(1588)
उत्पपात महावीर्यः पक्षिराट् परवीरहा।
समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्॥ 1-32-11(1589)
वर्मिमो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्।
पट्टिशैः परिधैः शूलैर्गदाभिश्च सवासवाः॥ 1-32-12(1590)
क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः।
नानाशस्त्रविसर्गैस्तैर्वध्यमानः समन्ततः॥ 1-32-13(1591)
कुर्वन्सुतुमुलं युद्धं पक्षिराण्ण व्यकम्पत।
निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्।
पक्षाभ्यामुरसा चैव समन्ताद्व्यक्षिपत्सुरान्॥ 1-32-14(1592)
ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः।
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु॥ 1-32-15(1593)
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्।
प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः॥ 1-32-16(1594)
दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम्।
मुहुर्मुहुः प्रेक्षमाणा युध्यमानं महौजसः॥ 1-32-17(1595)
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्।
क्रथनेन च शूरेण तपनेन च खेचरः॥ 1-32-18(1596)
उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्।
प्ररुजेन च संग्रामं चकार पुलिनेन च॥ 1-32-19(1597)
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः।
युगान्तकाले संक्रुद्धः पिनाकीव परंतप॥ 1-32-20(1598)
महाबला महोत्साहास्तेन ते बहुधा क्षताः।
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः॥ 1-32-21(1599)
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्।
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत॥ 1-32-22(1600)
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम्।
दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्॥ 1-32-23(1601)
`नभः स्पृशन्तं ज्वालाभिः सर्वभूतभयंकरम्।'
ततो नवत्या नवतीर्मुखानां
कृत्वा महात्मा गरुडस्तरस्वी।
नदीः समापीय मुखैस्ततस्तैः
सुशीघ्रमागम्य पुनर्जवेन॥ 1-32-24(1602)
ज्वलन्तमग्निं तममित्रतापनः
समास्तरत्पत्ररथो नदीभिः।
ततः प्रचक्रे वपुरन्यदल्पं
प्रवेष्टुकामोऽग्निमभिप्रशाम्य॥ ॥ 1-32-25(1603)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि द्वात्रिंशोऽध्यायः॥ 32 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-32-3 भौमनः विश्वकर्मा॥ 1-32-4 विनिहतः मृतकल्पः कृतः॥ 1-32-9 अपोवाह अपसारितवान्॥ 1-32-24 नवत्याः नवतीः शताधिकाष्टसाहस्रीः॥ 1-32-25 समास्तरत् आच्छादितवान् शामितवानित्यर्थः॥ द्वात्रिंशोऽध्यायः॥ 32 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|